Article Full Text
Publish Date: 13-12-2023 DOI : 10.62705/sjrs.2023.01.25 http://sadvidyajournal.in/ |
शास्त्रीयविचारपद्धतौ अनुमानप्रमाणस्य उपयोगः
Karthik Sharma K
Received : 16-11-2023 , Approved : 07-12-2023 , Published : 13-12-2023
DOI: 10.62705/sjrs.2023.01.25 Abstract
Keywords:
Co Authors
Abbreviations
Introduction
उपोद्घातः
तदिदं प्रसिद्धं यत् दार्शनिकग्रन्थेषु प्रतिपाद्यविषयाः प्रमाणप्रमेयविभागयोः विभक्ताः इति । प्रमाशब्दस्य यथार्थानुभवपरत्वात्, यथार्थानुभवकरणानि प्रमाणानि इति परिभाष्यन्ते । प्रमाणस्वरूपविषये तत्संख्याविषये च दार्शनिकानां नास्ति एकाभिप्रायः । तदुक्तं मानमेयोदये ;
प्रत्यक्षमनुमानं च शब्दं चोपमितिस्तथा ।
अर्थापत्तिरभावश्च षट् प्रमाणानि मादृशाम् ॥[1]
चार्वाकास्तावदेकं द्वितयमपि पुनर्बौद्धवैशेषिकौ द्वौ
भासर्वज्ञश्च सांख्यस्त्रितयमुदयनाद्याश्चतुष्कं वदन्ति ।
प्राहुः प्राभाकराः पञ्चकमपि च वयं तेऽपि वेदान्तविज्ञाः
षट्कं पौराणिकास्त्वष्टकमभिदधिरे संभवैतिह्ययोगात् ॥[2]
अस्मिन् च प्रबन्धे मया नैयायिकमतानुसारेण अनुमितिः कथमुत्पद्यते इति निरूपयितुमिष्यते । एवमेव अनुमानप्रमाणस्य परिज्ञानेन दार्शनिकविषयेषु लौकिकविषयेषु च क्रियमाणायां शास्त्रीयविचारपद्धतौ कथमुपयोगः स्यात् इति सोदाहरणं विमर्शं कर्तुमिष्यते ।
Literature Review
मानमेयोदयः, तर्कसङ्ग्रहदीपिका, कारिकावली इत्यादिग्रन्थेषु अनुमानप्रमाणस्य निरूपणं कृतमस्ति । तदनुसारेण अस्मिन् प्रबन्धे अनुमानप्रमाणं निरूप्यते ।
Statement of the Research Problem
अनुमानप्रमाणस्य दर्शनेषु इव लौकिकजीवने अपि उपयोगः अस्ति वेति संशयः प्रबन्धेस्मिन् परिहर्तुं इष्यते।
Methodology
दर्शनसन्दर्भाणां लौकिकसन्दर्भाणां च परीक्षणं कृत्वा अनुमानप्रमाणस्य उपयोगः सविमर्शं निरूप्यते ।
Analysis and Discussion
नैयायिकमतानुसारेण अनुमित्युत्पत्तिक्रमः
नैयायिकमतानुसारेण अनुमित्युत्पत्तिक्रमम् अवगन्तुम् एतादृशः कश्चन सन्दर्भः विभाव्यताम् ; कश्चन पुरुषः प्रातःकाले उत्थाय गृहस्य महानसं प्रति गतवान्, तत्र च सः धूमं वह्निं च प्रत्यक्षीकृतवान् । स ततः गाः परिपालयितुं गोशालां प्रति गतवान्, तत्र च गवाम् अतिशैत्यवारणाय सज्जीकृतं वह्निं धूमसहितं दृष्टवान् । ततश्च सः मधुग्रहणाय पर्वतं प्रस्थितः मध्येमार्गं चत्वरे यात्रिभिः सज्जीकृतं वह्निं धूमेन सह दृष्टवान् । ततोऽपि निर्गतः सः पर्वतसमीपं गतः पर्वते धूमं दृष्ट्वा पर्वते वह्निरस्तीति निश्चित्य पर्वतं पश्चात् गच्छामीति निश्चित्य गृहं प्रत्यागतवान् । एतादृशसन्दर्भे पर्वते चक्षुषा वह्निमपश्यन्नमपि अयं पुरुषः वह्निसत्त्वं पर्वते निश्चिनोतीति अवगम्यते । अयश्च निश्चयः प्रत्यक्षज्ञानरूपः भवितुं नार्हति वह्निना सह इन्द्रियसन्निकर्षाभावात्, न शाब्दबोधरूपः निश्चयः अयं ; पर्वते वह्निरस्तीत्येद्बोधकवाक्यस्य केनाऽपि तदा अनुच्चरितत्वात्, नाऽपि उपमितिरूपः निश्चयः अयं, तज्जनकसामग्र्याः प्रकृते अभावात् । तस्मात् प्रत्यक्षोपमितिशाब्दबोधेभ्यः विलक्षणः कश्चन अनुभवः ‘पर्वतो वह्निमान्’ इत्याकारकः अस्य पुरुषस्य जायते इत्यवश्यम् अङ्गीकर्तव्यम् । अयमेव निश्चयः ‘अनुमितिः’ इति शब्देन दार्शनिकैः व्यवह्रियते । अस्याः अनुमितेः उत्पत्यर्थम् अपेक्षितानि यानि ज्ञानानि तस्वरूपं क्रमश्च इत्येतदुभयं निरूपणीयमस्ति । तत्र च आदौ अयं पुरुषः महानसे गोशालायां चत्वरे च वह्निधूमयोः सहचरितयोः दर्शनात् भूयो दर्शनं प्राप्नोति इति अङ्गीकर्तव्यम् । तादृशभूयोदर्शनेन[1] सः निश्चिनोति यत् ‘यत्र यत्र धूमः तत्र तत्र वह्निः’ इति । अयमेव निश्चयः व्याप्त्यनुभवः[2] इत्युच्यते । तदुत्तरं पर्वतं गतः सः पुरुषः पर्वते विद्यमानं धूमं पश्यन् ‘पर्वतः धूमवान्’ इति ज्ञानं प्राप्नोति ; इदमेव ज्ञानं पक्षधर्मताज्ञान[3]मित्युच्यते । तदानीं तस्य सन्देहः भवति ; ‘पर्वतः वह्निमान् न वा’[4] इति । अयमेव साध्यसन्देहः[5] इत्युच्यते । तदुत्तरं सः स्मरति यत् ‘यत्र यत्र धूमः तत्र तत्र वह्निरिति’ ; इदमेव व्याप्तिस्मरणमित्युच्यते । तदुत्तरं ‘वह्निव्याप्यधूमवान् अयं पर्वतः’[6] इति ज्ञानं जायते ; इदमेव ज्ञानं परामर्शः इत्युच्यते । तदुत्तरं ‘पर्वतो वह्निमान्’ इत्यनुमितिरुत्पद्यते । अयं सर्वोऽपि विषयः अधोदत्तायां पेटिकायां सङ्गृह्यते ;
|
पक्षः साध्यवान् हेतुमत्त्वात् |
‘पर्वतो, वह्निमान, धूमात्’ |
ज्ञानस्य पारिभाषिकं नाम |
१ |
हेतुसाध्ययोः सहचरितयोः अनेकत्र दर्शनम् |
वह्निधूमयोः सहचरितयोः अनेकत्र दर्शनम्
|
भूयो दर्शनम्
|
२ |
यत्र यत्र हेतुः तत्र तत्र साध्यम् |
यत्र यत्र धूमः तत्र तत्र वह्निः |
व्याप्त्यनुभवः |
३ |
पक्षः हेतुमान् |
पर्वतः धूमवान् |
पक्षधर्मताज्ञानम् |
४ |
पक्षः साध्यवान् न वा |
पर्वतः वह्निमान् न वा |
साध्यसन्देहः |
५ |
यत्र यत्र हेतुः तत्र तत्र साध्यम् |
यत्र यत्र धूमः तत्र तत्र वह्निः |
व्याप्तिस्मरणम् |
६ |
साध्यव्याप्यहेतुमान् पक्षः |
वह्निव्याप्यधूमवान् पर्वतः |
परामर्शः |
७ |
पक्षः साध्यवान् |
पर्वतः वह्निमान् |
अनुमितिः |
अनुमानप्रमाणपरिज्ञानस्य उपयोगः
सर्वऽपि जनः स्वस्य व्यवहारकाले परानभिमतं विषयं वा परेण अज्ञातं विषयं वा परस्मै साधयितुं वादं करोतीति दृश्यते ।
वादकाले परस्मै परानभिमतं परेणाऽज्ञातं विषयं वा साधयितुं न्यायप्रयोगः कर्त्तव्यः भवति । न्यायप्रयोगकाले च हेत्वाभासादिदोषशुन्यः हेतुः प्रयोक्तव्यः भवति अन्यथा वादिनः पराजयः स्यात् । अनुमानप्रमाणस्य अध्ययनेन वादी न्यायप्रयोगे कुशलो भवति । अनुमानप्रमाणस्य अध्ययनं तु स्वार्थानुमितौ न तथा उपयुज्यते ; दर्शनेषु प्रतिपाद्यमानस्य अनुमानप्रमाणस्य अध्ययनं परिशीलनं विनाऽपि पामरादिपर्यन्तजनानाम् अनुमितेः दर्शनात् । तथा च स्वार्थानुमित्यर्थम् अनुमानप्रमाणस्य अध्ययनं परिशीलनं वा नापेक्षितं किन्तु परार्थानुमित्यर्थम् । तदिदम् एकेन उदाहरणेन स्पष्टीकरोमि ; एकः राजपुरुषः कञ्चन अपराधिनम् काराग्रहस्य अन्तः स्थापयित्वा तत्पिधानं कृत्वा स्वगृहं प्रत्यागतः, तस्य स्वपत्न्या सह इत्थं संवादः जातः ;
पत्नी : ‘सः अपराधी इदानीं कारग्रहे अस्ति वा ?’
राजपुरुषः : ‘सः इदानीं काराग्रहे अस्ति’ ।
पत्नी : ‘सः इदानीं काराग्रहे अस्ति इति कथं वक्तुं शक्यते भवता ? भवान् तु अत्र अस्ति’ ।
राजपुरुषः : ‘अहं तु काराग्रहं पिधायैव आगतवान् तस्मात् सः इदानीं काराग्रहे एव अस्ति’ ।
पत्नी : ननु काराग्रहस्य तदि अन्यत् अपिहितं द्वारं स्यात् तर्हि सः तेन सः निर्गतवान् स्यात् खलु ?
राजपुरुषः : नास्ति काराग्रहस्य अन्यत् द्वारं तस्मात् सः काराग्रहस्य अन्तः एव अस्ति ।
पत्नी : ननु काराग्रहस्य कुञ्चिका यदि अन्तः एव अस्ति तर्हि तया द्वारं उद्घाट्य बहिरागतवान्स्यात् खलु ?
राजपुरुषः : कुञ्जिका तु मम सविधे एव अस्ति, तस्मात् सः काराग्रहस्य अन्तः एव अस्ति ।
पत्नी : ननु काराग्रहान्तर्वर्तिना मुद्गरादिकरणविशेषेण तालं भङ्क्त्वा बहिरागतवान् स्यात्खलु ?
राजपुरुषः : तालभङ्गार्थम् अपेक्षितः मुद्गरादिकरणविशेषः काराग्रहस्य अन्तः नास्ति तस्मात् सः काराग्रहस्य अन्तः एव अस्ति ।
पत्नी : ननु स्वहस्ताभ्यामेव स तालं भङ्क्त्वा बहिरागतवान् स्यात् खलु ?
राजपुरुषः : तस्य हस्तौ तु शृङ्खलया बद्धौ स्तः इति कृत्वा सः तालं भङ्क्तुं न शक्नोतीति कृत्वा सः काराग्रहस्य अन्तः एव अस्ति ।
पत्नी : अस्तु, अहम् अङ्गीकरोमि ।
‘सः अपराधी इदानीं कारग्रहे अस्ति वा ?’ इति पत्नीप्रश्नोत्तरं ‘अपराधी इदानीं कारग्रहे अस्ति’ इति वदतः राजपुरुषस्य स्वार्थानुमितिस्तु क्षणात् उत्पन्ना इत्यवगन्तव्यम् । परन्तु इमं विषयं तु स्वपत्नीम् प्रति बोधयितुम् न्यायप्रयोगं यदा करोति तदा तु तर्केण प्रश्नं पृच्छन्तीं पत्नीं प्रत्याययितुं स्वहेतुनिर्देशं परिष्करोति सः बुद्धिमान् राजपुरुषः । ‘अहं तु काराग्रहं पिधायैव आगतवान् तस्मात् सः इदानीं काराग्रहे एव अस्ति’ इति वदता राजपुरुषेण अपराधी, इदानीं काराग्रहे वर्तते[7], पिहितद्वारककाराग्रहनिविष्टत्वात्, अपराध्यन्तरवत् इति अनुमानप्रयोगः विवक्षितः । तत्र स्वपत्न्या अप्रयोजकत्वशङ्कायां कृतायां ‘नास्ति काराग्रहस्य अन्यत् द्वारं तस्मात् सः काराग्रहस्य अन्तः एव अस्ति’ इति प्रत्युत्तरयता राजपुरुषेण द्वारान्तरासहितपिहितद्वारककारग्रहनिविष्टत्वम् इत्येवं परिष्कृतः हेतुः विवक्षितः । तत्राऽपि स्वपत्न्या अप्रयोजकत्वशङ्कायां कृतायां ‘कुञ्जिका तु मम सविधे एव अस्ति, तस्मात् सः काराग्रहस्य अन्तः एव अस्ति ।’ इत्येवं समादधता राजपुरुषेण द्वारान्तरासहितपिहितद्वारककारग्रहनिविष्टत्वे सति कुञ्चिकारहितत्वम् इति हेतुस्वरूपं विवक्ष्यते । तत्राऽपि पूर्वोक्तां अप्रयोजकत्वशङ्कां वारयितुम् ‘तालभङ्गार्थम् अपेक्षितः मुद्गरादिकरणविशेषः काराग्रहस्य अन्तः नास्ति तस्मात् सः काराग्रहस्य अन्तः एव अस्ति ।’ इति कथयता राजपुरुषेण द्वारान्तरासहितपिहितद्वारककारग्रहनिविष्टत्वे सति कुञ्चिकारहितत्वे सति तालभञ्जककरणरहित्वम् इत्येवं हेतुः विवक्षितः । तदुत्तरमपि तस्य हस्तौ तु शृङ्खलया बद्धौ स्तः इति कृत्वा सः तालं भङ्क्तुं न शक्नोतीति कृत्वा सः काराग्रहस्य अन्तः एव अस्ति ।’ इत्येवं वदता राजपुरुषेण अन्ततो गत्वा अपराधी, इदानीं काराग्रहे वर्तते, द्वारान्तरासहितपिहितद्वारककारग्रहनिविष्टत्वे सति कुञ्चिकारहितत्वे सति तालभञ्जककरणरहित्वे सति बद्धहस्तत्वात्, सम्मतवत्[8]’ इति अनुमानप्रयोगः विवक्षितः । एवं रीत्या न्यायप्रयोगकाले पक्षसाध्यहेत्वादीनां सम्यक् निर्देशं कर्तुं अनुमानप्रमाणस्य गाढम् अध्ययनम् उपकरोति । न केवलं न्यायप्रयोगाय अनुमानप्रमाणाध्ययनस्य उपयोगः किन्तु परकीयन्यायप्रयोगावमनाय तद्विशकलनाय तद्विमर्शाय च अनुमानप्रमाणस्य अध्ययनम् उपकरोति ।
अनुमानप्रमाणस्य लोके उपयोगः
अनुमानप्रमाणं एकस्य लैकिकजीवने अत्यन्तं प्राधान्यम् आवहति इति निस्संशयं वक्तुं शक्यम् । तन्निरूपणाय एकः स्थलविशेषः प्रदर्श्यते । एकः स्वक्षुन्निवर्तनाय अन्नभोजनं कर्तुं निर्णयं कृत्वा तदिच्छन् तत् करिष्यति । अत्रेदं प्रष्टव्यम् ; करिष्यमाणस्य अन्नभोजनस्य क्षुन्निवर्तकत्वं कथमयं पुरुषः इदानीम् अवगतवान् ? नूनं न प्रत्यक्षोपमानशब्दप्रमाणैः इति कृत्वा अनुमानप्रमाणेनैव अयं पुरुषः तत अवगतवान् इति वक्तव्यम् । तथ च अत्र अनुमानप्रयोगः कथं स्यात् इति पृष्टे इति जिज्ञासायाम् करिष्यमाणान्नभोजनं, क्षुन्निवर्तकम्, अन्नभोजनत्वात्, ह्यस्तनान्नभोजनवत् इति अनुमानप्रयोगः अत्र भवितुमर्हति । अत्राऽपि अनुमित्युत्पत्तिक्रमः अधः प्रदर्श्यते ;
|
पक्षः साध्यवान् हेतुमत्त्वात् |
प्रकृतस्थले |
ज्ञानस्य पारिभाषिकं नाम |
१ |
हेतुसाध्ययोः सहचरितयोः अनेकत्र दर्शनम् |
क्षुन्निवर्तकत्वान्नभोजनत्वयोः सहचरितयोः अनेकत्र दर्शनम्
|
भूयो दर्शनम्
|
२ |
यत्र यत्र हेतुः तत्र तत्र साध्यम् |
यत्र यत्र अन्नभोजनत्वं तत्र तत्र क्षुन्निवर्तकत्वम् |
व्याप्त्यनुभवः |
३ |
पक्षः हेतुमान् |
इदम् अन्नभोजनत्ववत् |
पक्षधर्मताज्ञानम् |
४ |
पक्षः साध्यवान् न वा |
अन्नभोजनं क्षुन्निवर्तकं न वा |
साध्यसन्देहः |
५ |
यत्र यत्र हेतुः तत्र तत्र साध्यम् |
यत्र यत्र अन्नभोजनत्वं तत्र तत्र क्षुन्निवर्तकत्वम् |
व्याप्तिस्मरणम् |
६ |
साध्यव्याप्यहेतुमान् पक्षः |
क्षुन्निवर्तकत्वव्याप्यान्न- भोजनत्ववत् इदम् |
परामर्शः |
७ |
पक्षः साध्यवान् |
अन्नभोजनं क्षुन्निवर्तकम् |
अनुमितिः |
एवं रीत्या सामान्यजनैः लौकिकव्यवहारकाले ज्ञात्वा वा अज्ञात्वा वा अनुमाणप्रमाणस्य उपयोगं कुर्वन्ति इति ज्ञातव्यम् । अन्यानि अपि स्थलानि एतादृशानि सूधीभिः विभावनीयानि ।
अनुमानप्रमाणस्य शास्त्रे उपयोगः
एवमेव अनुमानप्रमाणस्य शास्त्रीयविचारपद्धतावपि महान् उपकारः अस्ति । उदाहरणार्थं प्रायेण सर्वेऽपि आस्तिकाः ईश्वरम् अङ्गीकुर्वन्ति । अस्य च ईश्वरस्य सद्भावे अनुमानप्रमाणमपि उपन्यस्यन्ति । तत्र नैयायिकाः ईश्वरसद्भावसाधने इत्थम् अनुमानप्रयोगं कुर्वन्ति ; क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति । एवञ्च सति प्रकृतस्थले अनुमित्युत्पत्तिपक्रिया इत्थं भवति ;
|
पक्षः साध्यवान् हेतुमत्त्वात् |
प्रकृतस्थले |
ज्ञानस्य पारिभाषिकं नाम |
१ |
हेतुसाध्ययोः सहचरितयोः अनेकत्र दर्शनम् |
कर्तृजन्यत्वकार्यत्वयोः सहचरितयोः अनेकत्र दर्शनम्
|
भूयो दर्शनम्
|
२ |
यत्र यत्र हेतुः तत्र तत्र साध्यम् |
यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वम् |
व्याप्त्यनुभवः |
३ |
पक्षः हेतुमान् |
कर्तृजन्यत्वव्याप्यकार्यत्ववत् क्षित्यङ्कुरादिकम् |
पक्षधर्मताज्ञानम् |
४ |
पक्षः साध्यवान् न वा |
क्षित्यङ्कुरादिकं कर्तृजन्यं न वा |
साध्यसन्देहः |
५ |
यत्र यत्र हेतुः तत्र तत्र साध्यम् |
यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वम् |
व्याप्तिस्मरणम् |
६ |
साध्यव्याप्यहेतुमान् पक्षः |
कर्तृजन्यत्वव्याप्यकार्यत्ववत् क्षित्यङ्कुरादिकम् |
परामर्शः |
७ |
पक्षः साध्यवान् |
क्षित्यङ्कुरादिकं कर्तृजन्यम् |
अनुमितिः |
अनेन अनुमानेन यः जीवविलक्षणः कर्ता सिद्ध्यति सः ईश्वरः इत्युच्यते । एवं रीत्या शास्त्रीयपदार्थनिरूपणे अनुमानप्रमाणम् अत्यन्तं प्राधान्यम् आवहति ।
Finding and Conclusions
तथा च स्वयं न्यायप्रयोगान् कर्तुं, परकीयस्य न्यायप्रयोगस्य अवगमनाय, स्वकीयस्य वा परकीयस्य वा न्यायप्रयोगस्य विमर्शनाय, बुद्धिवैशद्याय च दर्शनेषु प्रतिपाद्यस्य अनुमानप्रमाणस्य परिज्ञानं सर्वेषां कृते उपकाराय भवतीति निस्संशयं वक्तुं शक्यम् ।
End Notes
1
, मानमेयोदयः, प्रमाणखण्डः, पञ्चमः श्लोकः2
, मानमेयोदयः, प्रमाणखण्डः, षष्ठः श्लोकः3
, वस्तुतस्तु भूयोदर्शनाभावेऽपि व्यभिचारज्ञानविरहसहकृतसहचारज्ञानमात्रेण व्याप्तेः गृह्यमाणत्वात् भूयोदर्शनम् इत्यस्य स्थानेव्यभिचारज्ञानविरहसहकृतसहचारज्ञानम् भवतीत्यवगन्तव्यम् ।4
, व्याप्तिर्नाम नियतसाहचर्यं । धूमस्तु वह्निं विना कुत्राऽपि न वर्तते इति कृत्वा धूमः वह्नेः नियतः सहचारी भवति ; तथा च वह्निनियतसाहचर्यं धूमे वर्तते । यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानेन वह्निनियतसाहचर्यरूपा व्याप्तिः धूमे गृह्यते इति कृत्वा अयमनुभ5
, यत्र किञ्चित् साध्यते सः पक्षः इत्युच्यते । धर्मो नाम वृत्तिपदार्थः । तथा च पक्षधर्मता नाम पक्षवृत्तित्वम् । प्रकृते पर्वते वह्निः साधयितुमिष्टः इति कृत्वा पर्वतः पक्षः भवति । धूमश्च पर्वतरूपपक्षे वर्तते इति कृत्वा धूमः पक्षस्य धर्मो भवति । तथा च धूमे6
, एतादृशसन्दर्भे ‘पर्वतः वह्निमान् न वा’ इति सन्देहस्तु नियमेन सर्वेषां न दृश्यते । तस्मात् अनुमित्युत्पत्त्यर्थम् इदम् अवश्यापेक्षितं नास्ति । पक्षधर्मताज्ञानोत्तरं साध्यसन्देहं विनैव परामर्शः भवितुमर्हतीत्याशयः ।7
, यत् साध्यते तत् साध्यम् इत्युच्यते । प्रकृते पुरुषेण पर्वते वह्निः साध्यते इति कृत्वा वह्निरेव साध्यमित्युच्यते ।8
, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तौ धूमः व्याप्यः, वह्निः व्यापकः इत्युच्यते । व्याप्यः नाम नियतसहचारी । पर्वते विद्यमानस्य धूमस्य धूमत्वेन अवगमनं पक्षधर्मताज्ञानेन जातम् । अस्यैव धूमस्य यावता वह्निनियतसहचारित्वेन ज्ञानं नास्ति तावता धूमेन वह्नि9
, काराग्रहनिरूपितवर्तमानकालावच्छिन्नाधेयतावान् इति वा साध्यनिर्देशः बोध्यः ।10
, अत्राऽपि यदि कश्चन दोषः सम्भाव्यते तर्हि परिष्कारः कर्तव्यः ।Citations
1 अन्नंभट्टः, चौखम्बा विद्याभवन, वाराणसी,, २०००
2 विश्वनाथपञ्चाननः, चौखम्बा कृष्णदास अकादमी, २००५